२०८१ माघ २८ काठमाडौ । सरस्वती मया दृष्टा वीणापुस्तकधारिणी । हंसवाहनसंयुक्ता विद्यादानं करोतु मे।।१।।प्रथमं भारती नाम द्वितीयञ्च सरस्वती।तृतीयं शारदा देवी चतुर्थ हंसवाहिनी।।२।।
पञ्चमं तु जगन्माता षष्ठं वागीश्वरी तथा।सप्तमं चैव कौमारी अष्टमं वरदायिनी।।३।।नवमं बुद्धिदात्री च दशमं ब्रह्मचारिणी।
एकादशं चन्द्रघण्टा द्वादशं भुवनेश्वरी।।४।।द्वादशै तानि नामानि त्रिसन्ध्यं य पठेन्नर।जिह्वाग्रे वसते तस्य ब्रह्मरूपा सरस्वती।।५।।(क्रान्ति)